Bhagavad-gītā - Como Ele É EM PROCESSO
<< 9 - O Conhecimento Mais Confidencial >>


9.1श्रीभगवानुवाच .इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । .ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽश‍ुभात् ॥ १ ॥
9.2राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । .प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
9.3अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप । .अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
9.4मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । .मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥
9.5न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । .भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥
9.6यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् । .तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
9.7सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । .कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
9.8प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: । .भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
9.9न च मां तानि कर्माणि निबध्‍नन्ति धनञ्जय । .उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
9.10मयाध्यक्षेण प्रकृति: सूयते सचराचरम् । .हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
9.11अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । .परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
9.12मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: । .राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥
9.13महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: । .भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
9.14सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: । .नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥
9.15ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । .एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
9.16अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् । .मन्‍त्रोऽहमहमेवाज्यमहमग्न‍िरहं हुतम् ॥ १६ ॥
9.17पिताहमस्य जगतो माता धाता पितामह: । .वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥
9.18गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत् । .प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
9.19तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च .अमृतं चैव मृत्युश च सद असच चाहम अर्जुन
9.20तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते .ते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान
9.21ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति .एवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते
9.22नन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते .तेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम
9.23ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः .ते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम
9.24अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च .न तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते
9.25यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः .भूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम
9.26पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति .तद अहं भक्त्युपहृतम अश्नामि परयतात्मनः
9.27यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत .यत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम
9.28शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः .संन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि
9.29समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः .ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम
9.30अपि चेत सुदुराचारॊ भजते माम अनन्यभाक .साधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः
9.31कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति .कौन्तेय परतिजानीहि न मे भक्तः परणश्यति
9.32मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः .सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम
9.33किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा .अनित्यम असुखं लॊकम इमं पराप्य भजस्व माम
9.34मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु .माम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः
Dona al Bhaktivedanta Library